|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.152. अध्यायः 152
Mahabharata - Adi Parva - Chapter Topics
युधिष्ठिरः साम्राज्येऽभिषेक्तव्य इति पौरवार्तां श्रुत्वा व्यथितस्य दुर्योधनस्य पित्रा संवादः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-152-0x(896)(6931)
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्।
दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मनाः॥ 1-152-1(6932)
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः।
अनेकारभ्युपायैस्ते जिघांसन्ति स्म पाण्डवान्॥ 1-152-2(6933)
पाण्डवा अपि तत्सर्वं प्रतिचक्रुर्यथाबलम्।
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः॥ 1-152-3(6934)
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा।
कथयाञ्चक्रिरे तेषां गुणान्संसत्सु भारत॥ 1-152-4(6935)
राज्यप्राप्तिं च संप्राप्तं ज्येष्ठं पाण्डुसुतं तदा।
कथयन्ति स्म संभूय चत्वरेषु सभासु च॥ 1-152-5(6936)
प्रज्ञाश्चक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः।
राज्यं न प्राप्तवान्पूर्वं स कथं नृपतिर्भवेत्॥ 1-152-6(6937)
तथा शान्तनवो भीष्मः सत्यसन्धो महाव्रतः।
प्रत्याख्याय पुरा राज्यं न स जातु ग्रहीष्यति॥ 1-152-7(6938)
ते वयं पाण्डवज्येष्ठं तरुणं वृद्धशीलिनम्।
अभिषिञ्चाम साध्वद्य सत्यकारुण्यवेदिनम्॥ 1-152-8(6939)
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित्।
सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन्॥ 1-152-9(6940)
वैशम्पायन उवाच। 1-152-10x(897)
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि जल्पताम्।
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः॥ 1-152-10(6941)
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे।
ईर्ष्यया चापि संतप्तो धृतराष्ट्रमुपागमत्॥ 1-152-11(6942)
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः।
पौरानुरागसंतप्तः पश्चादिदमभाषत॥ 1-152-12(6943)
श्रुता मे जल्पतां तात पौराणामशिवा गिरः।
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम्॥ 1-152-13(6944)
मतमेतच्च भीष्मस्य न स राज्यं बुभुक्षति।
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः॥ 1-152-14(6945)
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा।
त्वमन्धगुणसंयोगात्प्राप्तं राज्यं न लब्धवान्॥ 1-152-15(6946)
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः।
तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्यापि चापरः॥ 1-152-16(6947)
ते वयं राजवंशेन हीनाः सह सुतैरपि।
अवज्ञाता भविष्यामो लोकस्य जगतीपते॥ 1-152-17(6948)
सततं निरयं प्राप्ताः परपिण्डोपजीविनः।
न भवेम यथा राजंस्तथा नीतिर्विधीयताम्॥ 1-152-18(6949)
यदि त्वं हि पुरा राजन्निदं राज्यमवाप्तवान्।
ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने॥ 1-152-19(6950)
`वैशम्पायन उवाच। 1-152-20x(898)
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम्।
मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत्॥ 1-152-20(6951)
धर्मनित्यस्तथा पाण्डुः सुप्रीतो मयि कौरवः।
सर्वेषु ज्ञातिषु तथा मदीयेषु विशेषतः॥ 1-152-21(6952)
नात्र किंचन जानाति भोजनादि चिकीर्षितम्।
निवेदयति तत्सर्वं मयि धर्मभृतां वरः॥ 1-152-22(6953)
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरः सदा।
गुणावाँल्लोकविख्यातो नगरे च प्रतिष्ठितः॥ 1-152-23(6954)
स कथं शक्यतेऽस्माभिरपाक्रष्टुं नरर्षभः।
राज्यमेष हि नः प्राप्तः ससहयो विशेषतः॥ 1-152-24(6955)
भृता हि पाण्डुनाऽमात्या बलं च सततं मतम्।
धृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः॥ 1-152-25(6956)
ते तथा संस्तुतास्तात विषये पाण्डुना नराः।
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्॥ 1-152-26(6957)
नैते विषयमिच्छेयुर्धर्मत्यागे विशेषतः।
ते वयं कौरवेन्द्राणामेतेषां च महात्मनाम्॥ 1-152-27(6958)
कथं न वाच्यतां तात गच्छेम जगतस्तथा॥ 1-152-28(6959)
दुर्योधन उवाच। 1-152-29x(899)
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः।
यतः पुतस्ततो द्रोणो भविता नात्र संशयः॥ 1-152-29(6960)
कृपः शारद्वतश्चैव यत एव वयं ततः।
बागिनेयं ततो द्रौणिं न त्यक्ष्यति कथंचन॥ 1-152-30(6961)
क्षत्ता तु बन्धुरस्माकं प्रच्छन्नस्तु ततः परैः।
न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम्॥ 1-152-31(6962)
सुविस्रब्धान्पाण्डुसुतान्सह मात्रा विवासय।
वारणावतमद्यैव नात्र दोषो भविष्यति॥ 1-152-32(6963)
विनिद्राकरणं घोरं हृदि शल्यमिवार्पितम्।
शोपकपावकमुद्धूतं कर्मणानेन नाशय॥' ॥ 1-152-33(6964)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः॥ 152 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|